Abstract

अस्मिन् लेखे संस्कृतभाषायाः सांस्कृतिकविकासे काकतीयवंशस्य योगदानं विवेचितम्। काकतीयशासकानां विद्वदाश्रयः, वेदशास्त्राध्ययनस्य प्रोत्साहनं, संस्कृतशिलालेखानां रचना तथा मन्दिराणां संरक्षणम् अस्य लेखस्य प्रमुखविषयाः सन्ति।

Introduction#

Dr. PADMA

संस्कृतविभागः (TGT), KVS NTPC रामागुण्डम्

OSMANIA UNIVERSITY#

upadma6@gmail.com

१. प्रस्तावना

संस्कृतभाषा भारतीयसंस्कृतेः आधारभूता भाषा अस्ति। प्राचीनकालात् मध्यकालपर्यन्तं अस्याः विकासः विविधैः राजवंशैः संरक्षितः। दक्षिणभारते काकतीयवंशः एकः प्रभावशाली राजवंशः आसीत्। तेषां राज्ये संस्कृतभाषा न केवलं राजकीय-भाषा आसीत्, अपितु धार्मिक-सांस्कृतिकजीवनस्य मुख्याधारः अपि आसीत्।

२. काकतीयवंशस्य ऐतिहासिकपरिचयः

काकतीयवंशः दक्षिणभारते एक: प्रख्यात: राजवंश: आसीत्। अस्य वंशस्य उदय: १२–१४ शताब्द्यो: मध्ये दक्षिणभारते अभवत्। तेषां राजधानी Warangal (प्राचीन-ओरुगल्लु) आसीत्। काकतीयाः मुख्यतः अद्यतन-तेलङ्गाणा-प्रदेशे शासनम् अकुर्वन्। इतिहासकाराणां मतानुसारं काकतीयाः प्रारम्भे राष्ट्रकूट-चालुक्यादीनां सामन्ताः आसन्। अनन्तरं स्वातन्त्र्यं प्राप्य स्वतन्त्रराज्यं स्थापितवन्तः। काकतीयाः सुशासन-व्यवस्था, किलानिर्माणम्, जलसिंचनव्यवस्था च प्रवर्तितवन्तः। व्यापारः, कृषिः च उन्नतौ आस्ताम्।

प्रमुखाः राजानः

Prola II –

अस्य शासनकाले काकतीयवंशस्य प्रभावः दृढीकृतः। सः प्रारम्भे चालुक्यनृपाणां सामन्तः आसीत्, किन्तु स्वपराक्रमस्य बलात् स्वातन्त्र्यस्य आधारं निर्मितवान्। अस्य कालात् प्रशासनव्यवस्था सुव्यवस्थिताभवत्। कृषिविकासः, दुर्गनिर्माणस्य आरम्भः, धर्मकार्येषु रुचिः च दृश्यते। संस्कृतविद्वांसां प्रति आदरभावः अपि अस्य शासनकाले आरब्धः।

Rudra Deva –

सः पराक्रमी तथा धर्मपरायणः राजा आसीत्। राज्यविस्तारं कृत्वा काकतीयसाम्राज्यस्य प्रतिष्ठां वर्धितवान्। मन्दिरनिर्माणेषु विशेषरुचिं प्रदर्श्य स्थापत्यकलायाः उत्कर्षं साधितवान्। तस्य कालात् संस्कृतभाषायाः राजसभायां महत्त्वं वर्धितम्। विद्वज्जनानां सत्कारः, वेद–शास्त्राध्ययनस्य प्रोत्साहनम्, दानपरम्परा च प्रवर्तिता।

Ganapati Deva –

काकतीयवंशस्य अत्यन्तं शक्तिशाली नृपः आसीत्। तस्य शासनकाले राज्यसीमा समुद्रपर्यन्तं विस्तृता अभवत्। व्यापारविकासः, सिंचनव्यवस्था, नगररचना च अत्यन्तं समृद्धा जाता। अस्य राजसभायां अनेकाः संस्कृतविद्वांसः, कवयः, पण्डिताः च आश्रयं प्राप्नुवन्। संस्कृतशिलालेखानां रचना, देवालयसंरक्षणम्, धार्मिकसहिष्णुता च अस्य शासनस्य प्रमुखलक्षणानि आसन्।

Rudrama Devi –

भारतस्य इतिहासे विरलासु महिला–शासकासु एका महानुभावा। सा धैर्येण, बुद्ध्या, प्रशासनकौशलेन च प्रसिद्धा आसीत्। राज्यरक्षणे, अर्थव्यवस्थायां, सांस्कृतिकसंरक्षणे च तस्या विशेषयोगदानम् आसीत्। स्त्रीणां सामाजिकस्थानस्य उन्नतिः तस्याः शासनकाले दृश्यते। विदुषीभ्यः अपि सम्मानः दत्तः, यत् स्त्रीशिक्षायाः प्रगतेः सूचकं भवति।

Prataparudra –

सः काकतीयवंशस्य अन्तिमः प्रमुखः राजा आसीत्। तस्य कालः राजनैतिकदृष्ट्या क्लिष्टः आसीत्, तथापि सः संस्कृतसंस्कृतेः संरक्षणे यत्नशीलः आसीत्। शास्त्र–साहित्य–धर्मपरम्पराणां समर्थनं कृतवान्। परकीयाक्रमणानां कारणेन अन्ते वंशस्य पतनम् अभवत्, किन्तु सांस्कृतिकधरोहरः दीर्घकालं यावत् अवशिष्टः

सांस्कृतिकमहत्त्वम्

काकतीयराजान: संस्कृत-तेलुगुभाषयोः पोषकाः आसन्। मन्दिर-निर्माणेषु, शिलालेखेषु, साहित्ये च तेषां योगदानम् अद्यापि दृश्यते। विशेषतः रामम्प्पा मंदिरं  सहस्रस्तम्भ-मंदिरं च तेषां स्थापत्यकौशलस्य उत्कृष्टानि उदाहरणानि स्त:। एते मंदिरा: सांस्कृतिककार्यक्रमाणां केन्द्राणि अपि आसन् ।

३. संस्कृतभाषायाः संरक्षणम्

काकतीयराजानः संस्कृतविद्वांसः बहुमानयन्तः आसन्। काकतीयराजसभायाम् अनेका: कवयः, पण्डिताः, आचार्याः च सम्मानिताः भवन्ति स्म। संस्कृतभाषा तदा राजभाषारुपेण प्रतिष्ठिता आसीत्। शास्त्र,पुराण,काव्य,नाटकादीनां रचना प्रोत्साहिता अभवत्।

 वेदाध्ययनस्य प्रोत्साहनम्।

 संस्कृतग्रन्थानां रचनायाः समर्थनम्।

 मन्दिरेषु शिलालेखाः संस्कृतभाषया उत्कीर्णाः।

विशेषतः Thousand Pillar Temple इत्यादिषु मन्दिरेषु संस्कृतशिलालेखाः दृश्यन्ते। तस्मिन् काले गुरुकुलव्यवस्था सुस्थितेति दृश्यते। ब्राह्मणानां,पंडितानां च भूमिदानं कृत्वा शिक्षाक्षेत्रस्य संवर्धनं संरक्षणं च कृतम्।वेदाध्ययनं,व्याकरणशास्त्रं मीमांसा,न्यायाशास्त्रं च विशेषरूपेण अभिवृदधिम् आगच्छन् ।

४. साहित्यविकासे योगदानम्

काकतीयकालः साहित्यस्य उन्नतकालः आसीत्।

 काव्य-नाटक-पुराणादीनां रचना अभवत्।

 अलंकारशास्त्र-व्याकरण-मीमांसादीनां अध्ययनं संवर्धितम्।

 कवीनां संरक्षणेन संस्कृतसाहित्ये नूतनविचारधाराः विकसिताः।

काकतीयदरबारे अनेकाः संस्कृतकवयः विद्यमानाः आसन्, येषां कृतेन ग्रन्थाः अद्यापि उपलब्धाः सन्ति।

५. स्थापत्यकला-संस्कृतिः च

काकतीय वंश-कालः स्थापत्यकलायाः उत्कर्षकालः आसीत्। तेषां राज्ञां शासनसमये देवालयनिर्माणे, दुर्गरचनायां, तोरणनिर्माणे च अद्वितीयं कौशलं दृश्यते।

१. देवालयनिर्माणकौशलम्

काकतीयकालीनदेवालयाः दृढशिलया निर्मिताः, सूक्ष्मनक्काशीयुक्ताः, सुशोभितस्तम्भसमन्विताः च आसन्।

 सहस्रस्तम्भमन्दिरम् – अस्मिन् मन्दिरे अनेके स्तम्भाः सन्ति, येषां शिल्पकला अत्यन्तं सूक्ष्मा अस्ति।

 रामप्पामन्दिरम् – अस्य मन्दिरस्य शिल्पसौन्दर्यं, नृत्यमुद्रायुक्ताः प्रतिमाः च प्रसिद्धाः सन्ति।

२. तोरणनिर्माणम्

काकतीयशासने विशालानि तोरणानि निर्मितानि। “काकतीयतोरणम्” इति तोरणं तेषां स्थापत्यवैशिष्ट्यस्य प्रतीकम् अस्ति। एतत् तोरणं अद्यापि तेषां वैभवं स्मारयति।

३. दुर्गरचना

वारंगलदुर्ग: काकतीयकालीनदुर्गेषु प्रमुखः आसीत्। अस्य दुर्गस्य रचना बहुपरिखायुक्ता, सुदृढप्राकारसंवलिता च आसीत्। एतत् सैन्यदृष्ट्या अपि महत्त्वपूर्णम् आसीत्।

४. शिल्पकला

मन्दिरेषु देवप्रतिमाः, नर्तकीनां मूर्तयः, पशुपक्षिणां चित्रणं च अद्भुतरूपेण उत्कीर्णम् अस्ति। नृत्यशास्त्रस्य प्रभावः अपि प्रतिमासु दृश्यते।

५. निर्माणवैशिष्ट्यम्

काकतीयस्थापत्ये—

 उन्नतपीठिका (जगती)

 बहुभुजमण्डपाः

 ललितनक्काशी

 दृढशिलाप्रयोगः

 धार्मिक-सांस्कृतिककेन्द्ररूपेण मन्दिराणां विकासः।

इत्यादीनि विशेषलक्षणानि सन्ति। काकतीयकालस्य स्थापत्यकला अद्वितीया आसीत्। Ramappa Temple (रुद्रेश्वरमन्दिरम्) तेषां स्थापत्यवैभवस्य उत्कृष्टम् उदाहरणम् अस्ति।

६. शिक्षाक्षेत्रे योगदानम्

काकतीय वंश-कालः न केवलं स्थापत्यकले, अपि तु शिक्षाक्षेत्रे अपि अत्यन्तं उन्नतकालः आसीत्। तेषां राजानां प्रयत्नेन शिक्षायाः व्यापकः प्रसारः अभवत्।

१. गुरुकुलव्यवस्था

तस्मिन् काले गुरुकुलव्यवस्था सुस्थिताऽभवत्। विद्यार्थी गुरुगृहे निवसन्तः वेदान्, व्याकरणं, न्यायशास्त्रं, मीमांसां, काव्यशास्त्रं च अधीयन्ते स्म। आचार्याः समाजे अत्यन्तं सम्मानिताः आसन्

२. भूमिदानपरम्परा

काकतीयराजानः विद्वद्भ्यः, ब्राह्मणेभ्यः च भूमिदानं कुर्वन्ति स्म। एतेन शिक्षाकेन्द्राणां (अग्रहाराणां) संवर्धनं जातम्। अनेके ग्रामाः शिक्षोपकाराय दत्ताः आसन्।

३. संस्कृतभाषाया महत्त्वम्

राजसभायां संस्कृतभाषा प्रमुखभाषारूपेण प्रतिष्ठिता आसीत्। शास्त्रग्रन्थानां रचना, पठन-पाठनं च संस्कृतेनैव क्रियते स्म।

४. शिक्षाकेन्द्राणि

ओरुगल्लु (अधुना वारङ्गल्) नगरी विद्यानां केन्द्रम् आसीत्। तत्र विद्वत्सभाः, शास्त्रार्थाः च आयोज्यन्ते स्म।

५. स्त्रीशिक्षा

काकतीयकालीनसमाजे स्त्रीणां सम्माननीयः स्थानम् आसीत्। रुद्रमादेवी इव विदुषी महाराणी शासनकार्ये निपुणा आसीत्, यत् स्त्रीशिक्षायाः प्रगतेः सूचकम् अस्ति। एतेन संस्कृतभाषायाः काकतीय वंश-काले दक्षिणभारते विविधधर्माणां, भाषाणां, कलानां च सुन्दरः समन्वयः दृश्यते। एषः कालः केवलं राजनैतिकवैभवस्य न, अपि तु सांस्कृतिकैक्यस्य अपि प्रतीकः आसीत्।

७. सांस्कृतिकसमन्वयः

१. धर्मसमन्वयः

काकतीयराजानः मुख्यतया शैवमतानुयायिनः आसन्, तथापि वैष्णव, जैन, बौद्धमतानां प्रति अपि सम्मानभावं प्रदर्शितवन्तः। विविधदेवालयनिर्माणेन धार्मिकसहिष्णुता अभिव्यक्ता।

 रामप्पामन्दिरम् इत्यत्र शैवपरम्परा प्रमुखा आसीत्।

 अन्येषां देवतानां मन्दिराणि अपि समदृष्ट्या संरक्षितानि आसन्।

२. भाषासमन्वयः

राजसभायां संस्कृतभाषा प्रतिष्ठिता आसीत्, किन्तु प्रादेशिकभाषानाम् अपि विकासः अभवत्। संस्कृत–तेलुगुभाषयोः परस्परप्रभावः दृश्यते।

३. कलासमन्वयः

नृत्य, संगीत, शिल्पकला च धार्मिकजीवनेन सह सम्बद्धाः आसन्। हजारस्तम्भमन्दिरम् इत्यत्र नृत्यमुद्रायुक्ताः प्रतिमाः दृश्यन्ते, याः कलानां धर्मेण सह सम्बन्धं सूचयन्ति।

४. सामाजिकसमन्वयः

समाजे विविधवर्णानां, जातीनां च सहभागिता आसीत्। उत्सवाः, यज्ञाः, सांस्कृतिककार्यक्रमाः च सामूहिकरूपेण आयोज्यन्ते स्म।

५. राजकीयसमर्थनम्

ओरुगल्लु नगरी सांस्कृतिकक्रियाकलापानां केन्द्रम् आसीत्। राजाश्रयेन विद्वत्सभाः, शास्त्रार्थाः, नाट्यप्रदर्शनानि च नियमितरूपेण भवन्ति स्म।

व्यवहारिकं शैक्षिकं च महत्त्वं दृढीकृतम्। एतेन संस्कृतभाषा सामाजिकजीवनस्य सर्वाङ्गे प्रतिष्ठिता अभवत्।

८. उपसंहारः

समग्रदृष्ट्या अवलोक्यते चेत् काकतीयकालः संस्कृतभाषा–सांस्कृतिकविकासस्य स्वर्णयुगः इव प्रकाशते। अस्मिन् काले न केवलं राजनैतिकशक्तेः विस्तारः अभवत्, अपि तु साहित्य–संस्कृति–शिक्षा–धर्म–स्थापत्यकला–सामाजिकव्यवस्था इत्यादिषु सर्वेषु क्षेत्रेषु उल्लेखनीया उन्नतिः जाता। काकतीयनृपाः विद्वद्भ्यः, आचार्येभ्यः, कविभ्यः च यथोचितं सम्मानं दत्त्वा संस्कृतभाषायाः गौरवं दृढीकृतवन्तः। तेषां राजसभासु शास्त्रार्थपरम्परा, काव्यरचना, वेदाध्ययनम्, धर्मचर्चा च सम्यग् प्रवर्तिताः।

मन्दिरनिर्माणेषु, शिलालेखेषु, दानपत्रेषु च संस्कृतभाषायाः व्यापकः प्रयोगः तस्याः सामाजिक–धार्मिक–राजकीयमहत्त्वं सूचयति। Ramappa Temple, Thousand Pillar Temple तथा Warangal Fort इत्यादीनि स्थापत्यवैभवानि अद्यापि तेषां सांस्कृतिकसमृद्धेः साक्षिणि सन्ति। एतेषु स्थलेषु दृश्यन्ते शिल्पकला, नृत्यमुद्राः, देवप्रतिमाः च काकतीयानां सौन्दर्यबोधं, धार्मिकश्रद्धां, कलाप्रेम च प्रकटयन्ति।

शिक्षाक्षेत्रे अपि गुरुकुलव्यवस्थाया: संरक्षणं, अग्रहारदानपरम्परा, वेद–शास्त्राध्ययनस्य प्रोत्साहनं च संस्कृतसंस्कृतेः मूलाधारं दृढीकृतवन्ति। धर्मसमन्वयभावेन शैव–वैष्णव–जैनादिमतानां समुचितः आदरः प्रदर्शितः, येन सामाजिकैक्यं सुदृढम् अभवत्।

अतः निःसंशयं प्रतिपादयितुं शक्यते यत् काकतीयवंशस्य योगदानं भारतीयसंस्कृतेः इतिहासे अमूल्यम्, अद्वितीयं, चिरस्मरणीयं च अस्ति। तेषां शासनकालः केवलं भूतकालीनवैभवस्य प्रतीकः न, किन्तु आधुनिकसमाजाय अपि प्रेरणास्रोतः अस्ति। संस्कृतभाषाया: संरक्षण–प्रसारयोः तेषां प्रयत्नाः भारतीयसंस्कृतेः अमरधरोहररूपेण सर्वदा स्मरणीयाः भविष्यन्ति।

सन्दर्भग्रन्थसूची (References)

1. दक्षिणभारतीय-इतिहासग्रन्थाः।

2. काकतीयकालीन-शिलालेखसंग्रहः।

3. भारतीयसंस्कृतिसाहित्य-इतिहासग्रन्थाः।

4. रामप्पा-मन्दिर-इतिहासविवरणम्।

5) The Cultural Heritage of India – भारतीयसंस्कृतेः समग्रविवेचनम्।

6) Archaeological Survey of India प्रकाशितानि काकतीयकालीनपुरातत्त्व–प्रतिवेदनानि।

7)Kakatiya Charitra – P. V. Parabrahma Sastry कृतम्।

8) A History of South India – K. A. Nilakanta Sastri विरचितम्।